त्रिपुरभैरवी कवचम् (Tripura Bhairavi Kavacham) Sanskrit PDF
Hello, Friends today we are sharing with you Tripura Bhairavi Kavacham PDF to help you. If you are searching Tripura Bhairavi Kavacham in the Sanskrit language then don’t worry you have arrived at the right website and you can directly download from the link given at the bottom of this page.
त्रिपुरा भैरवी कवचम अद्भुत वैदिक भजनों में से एक है जो देवी त्रिपुरा भैरवी को समर्पित है। हिंदू देवताओं का पांचवां महान ब्रह्मांडीय ज्ञान त्रिपुर भैरवी है, जिसका संबंध बुराई और अशुद्ध के विनाश की भयानक शक्ति और सूक्ष्म सार्वभौमिक अग्नि की ऊर्जा से है। इन पहलुओं के निहितार्थ असंख्य हैं। उदाहरण के लिए, महान ब्रह्मांडीय ज्ञान त्रिपुर भैरवी द्वारा की गई शुद्धिकरण क्रिया का अर्थ उनके उद्धारकर्ता पहलू की अभिव्यक्ति है, क्योंकि वह अपने भक्तों को सभी दुखों और नकारात्मक कर्म-दबावों से बचाती हैं।
Tripura Bhairavi Kavacham Lyrics Sanskrit
श्रीपार्वत्युवाच
देवदेव महादेव सर्वशास्त्रविशारद ।
कृपाङ्कुरु जगन्नाथ धर्मज्ञोऽसि महामते ॥ १॥
भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका ।
तस्यास्तु कवचन्दिव्यं मह्यङ्कथय तत्त्वतः ॥ २॥
तस्यास्तु वचनं श्रुत्वा जगाद जगदीश्वरः ।
अद्भुतङ्कवचन्देव्या भैरव्या दिव्यरूपि वै ॥ ३॥
ईश्वर उवाच
कथयामि महाविद्याकवचं सर्वदुर्लभम् ।
शृणुष्व त्वञ्च विधिना श्रुत्वा गोप्यन्तवापि तत् ॥ ४॥
यस्याः प्रसादात्सकलं बिभर्मि भुवनत्रयम् ।
यस्याः सर्वं समुत्पन्नयस्यामद्यापि तिष्ठति ॥ ५॥
माता पिता जगद्धन्या जगद्ब्रह्मस्वरूपिणी ।
सिद्धिदात्री च सिद्धास्स्यादसिद्धा दुष्टजन्तुषु ॥ ६॥
सर्वभूतहितकरी सर्वभूतस्वरूपिणी ।
ककारी पातु मान्देवी कामिनी कामदायिनी ॥ ७॥
एकारी पातु मान्देवी मूलाधारस्वरूपिणी ।
इकारी पातु मान्देवी भूरि सर्वसुखप्रदा ॥ ८॥
लकारी पातु मान्देवी इन्द्राणी वरवल्लभा ।
ह्रीङ्कारी पातु मान्देवी सर्वदा शम्भुसुन्दरी ॥ ९॥
एतैर्वर्णैर्महामाया शम्भवी पातु मस्तकम् ।
ककारे पातु मान्देवी शर्वाणी हरगेहिनी ॥ १०॥
मकारे पातु मान्देवी सर्वपापप्रणाशिनी ।
ककारे पातु मान्देवी कामरूपधरा सदा ॥ ११॥
ककारे पातु मान्देवी शम्बरारिप्रिया सदा ।
पकारी पातु मान्देवी धराधरणिरूपधृक् ॥ १२॥
ह्रीङ्कारी पातु मान्देवी आकारार्द्धशरीरिणी ।
एतैर्वर्णैर्महामाया कामराहुप्रियाऽवतु ॥ १३॥
मकारः पातु मान्देवी सावित्री सर्वदायिनी ।
ककारः पातु सर्वत्र कलाम्बरस्वरूपिणी ॥ १४॥
लकारः पातु मान्देवी लक्ष्मीः सर्वसुलक्षणा ।
ह्रीं पातु मान्तु सर्वत्र देवी त्रिभुवनेश्वरी ॥ १५॥
एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी ।
वाग्भवं मस्तकमम्पातु वदनङ्कामराजिका ॥ १६॥
शक्तिस्वरूपिणी पातु हृदययन्त्रसिद्धिदा ।
सुन्दरी सर्वदा पातु सुन्दरी परिरक्षति ॥ १७॥
रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी ।
नानालङ्कारसंयुक्ता सुन्दरी पातु सर्वदा ॥ १८॥
सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदायिनी ।
जगदाह्लादजननी शम्भुरूपा च मां सदा ॥ १९॥
सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी ।
सर्वलक्ष्मीमयी देवी परमानन्ददायिनी ॥ २०॥
पातु मां सर्वदा देवी नानाशङ्खनिधिः शिवा ।
पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी ॥ २१॥
दक्षिणामूर्तिर्माम्पातु ऋषिः सर्वत्र मस्तके ।
पङ्क्तिश्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी ॥ २२॥
गन्धाष्टकात्मिका पातु हृदयं शङ्करी सदा ।
सर्वसंमोहिनी पातु पातु सङ्क्षोभिणी सदा ॥ २३॥
सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी ।
क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु ॥ २४॥
आकर्षिणी सदा पातु सं मोहिनी सदावतु ।
रतिर्देवी सदा पातु भगाङ्गा सर्वदावतु ॥ २५॥
महेश्वरी सदा पातु कौमारी सर्वदावतु ।
सर्वाह्लादनकारी माम्पातु सर्ववशङ्करी ॥ २६॥
क्षेमङ्करी सदा पातु सर्वाङ्गसुन्दरी तथा ।
सर्वाङ्गयुवतिः सर्वं सर्वसौभाग्यदायिनी ॥ २७॥
वाग्देवी सर्वदा पातु वाणिनी सर्वदावतु ।
वशिनी सर्वदा पातु महासिद्धिप्रदा सदा ॥ २८॥
सर्वविद्राविणी पातु गणनाथः सदावतु ।
दुर्गा देवी सदा पातु बटुकः सर्वदावतु ॥ २९॥
क्षेत्रपालः सदा पातु पातु चावरिशान्तिका ।
अनन्तः सर्वदा पातु वराहः सर्वदावतु ॥ ३०॥
पृथिवी सर्वदा पातु स्वर्णसिम्हासनन्तथा ।
रक्तामृतञ्च सततम्पातु मां सर्वकालतः ॥ ३१॥
सुरार्णवः सदा पातु कल्पवृक्षः सदावतु ।
श्वेतच्छत्रं सदा पातु रक्तदीपः सदावतु ॥ ३२॥
नन्दनोद्यानं सततम्पातु मां सर्वसिद्धये ।
दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा ॥ ३३॥
वाहनानि सदा पान्तु अस्त्राणि पान्तु सर्वदा ।
शस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा ॥ ३४॥
सिद्धाः पान्तु सदा देवी सर्वसिद्धिप्रदावतु ।
सर्वाङ्गसुन्दरी देवी सर्वदावतु मान्तथा ॥ ३५॥
आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका ।
सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी ॥ ३६॥
पृथग्देवालये घोरे सङ्कटे दुर्गमे गिरौ ।
अरण्ये प्रान्तरे वापि पातु मां सुन्दरी सदा ॥ ३७॥
इदङ्कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति ।
यः पठेत्प्रयतो भूत्वा त्रिसन्ध्यन्नियतः शुचिः ॥ ३८॥
तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ।
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ॥ ३९॥
स्वयम्भूकुसुमैः शुक्लैर्भूमिपुत्रे शनौ सुरे ।
श्मशाने प्रान्तरे वापि शून्यागारे शिवालये ॥ ४०॥
स्वशक्त्या गुरुणा यन्त्रम्पूजयित्वा कुमारिकाः ।
तन्मनुम्पूजयित्वा च गुरुपङ्क्तिन्तथैव च ॥ ४१॥
देव्यै बलिन्निवेद्याथ नरमार्जारसूकरैः ।
नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः ॥ ४२॥
धृत्वा सुवर्णमध्यस्तङ्कण्ठे वा दक्षिणे भुजे ।
सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा ॥ ४३॥
धारयित्वा च कवचं सर्वसिद्धिलभेन्नरः ।
कवचस्य च माहात्म्यन्नाहवर्षशतैरपि ॥ ४४॥
शक्नोमि तु महेशानि वक्तुन्तस्य फलन्तु यत् ।
न दुर्भिक्षफलन्तत्र न चापि पीडनन्तथा ॥ ४५॥
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ४६॥
सर्वरक्षाकरञ्जन्तोश्चतुर्वर्गफलप्रदम् ।
यत्र कुत्र न वक्तव्यन्न दातव्यङ्कदाचन ॥ ४७॥
मन्त्रम्प्राप्य विधानेन पूजयेत्सततं सुधीः ।
तत्रापि दुर्लभं मन्ये कवचन्देवरूपिणम् ॥ ४८॥
गुरोः प्रसादमासाद्य विद्याम्प्राप्य सुगोपिताम् ।
तत्रापि कवचन्दिव्यन्दुर्लभम्भुवनत्रये ॥ ४९॥
श्लोकवा स्तवमेकवा यः पठेत्प्रयतः शुचिः ।
तस्य सर्वार्थसिद्धिः स्याच्छङ्करेण प्रभाषितम् ॥ ५०॥
गुरुर्द्देवो हरः साक्षात्पत्नी तस्य च पार्वती ।
अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः ॥ ५१॥
इति श्रीरुद्रयामले भैरवभैरवीसंआदे श्रीभैरवीकवचं सम्पूर्णम् ॥
आप नीचे दिए गए लिंक का उपयोग करके त्रिपुरभैरवी कवचम् (Tripura Bhairavi Kavacham) PDF में डाउनलोड कर सकते हैं।
