Brahma Sutras - Summary
The Brahma Sutras is a fundamental Sanskrit text, credited to Badarayana, which was likely completed around 400-450 CE. This important scripture organizes and summarizes the essential philosophical and spiritual concepts found in the Upanishads. It is considered a key text within the Vedānta school of Hindu philosophy. You can download the Brahma Sutras in PDF format or read it online for free through the link provided below.
ब्रह्मसूत्राणि
ॐ
॥ श्री गुरुभ्यो नमः हरिः ॐ॥
॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि श्री ब्रह्मसूत्राणि॥
॥ अथ प्रथमोऽध्यायः॥
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१॥
ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२॥
ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३॥
ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४॥
ॐ ईक्षतेर्नाशब्दम् ॐ ॥ १.१.५॥
ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ १.१.६॥
ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ १.१.७॥
ॐ हेयत्वावचनाच्च ॐ ॥ १.१.८॥
ॐ स्वाप्ययात् ॐ ॥ १.१.९॥
ॐ गतिसामान्यात् ॐ ॥ १.१.१०॥
ॐ श्रुतत्वाच्च ॐ ॥ १.१.११॥
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १.१.१२॥
ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥ १.१.१३॥
ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ १.१.१४॥
ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ १.१.१५॥
ॐ नेतरोऽनुपपत्तेः ॐ ॥ १.१.१६॥
ॐ भेदव्यपदेशाच्च ॐ ॥ १.१.१७॥
ॐ कामाच्च नानुमानापेक्षा ॐ ॥ १.१.१८॥
ॐ अस्मिन्नस्य च तद्योध्नशास्ति ॐ ॥ १.१.१९॥
ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १.१.२०॥
ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ १.१.२१॥
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ १.१.२२॥
ॐ अत एव प्राणः ॐ ॥ १.१.२३॥
ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १.१.२४॥
ॐ छन्दोऽभिधानान्नेतिचेन्न तथा चितोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ १.१.२५॥
ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ १.१.२६॥
ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ १.१.२७॥
ॐ प्राणस्तथानुगमात् ॐ ॥ १.१.२८॥
ॐ नवक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॐ ॥ १.१.२९॥
ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ ॥ १.१.३०॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह तद्योध्नात् ॐ ॥ १.१.३१॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य प्रथमः पादः समाप्तः
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १.२.१॥
Content continues…
If you wish to read more and download a complete PDF version of the Brahma Sutras, click the link below.